धर्मDharmic Data

काण्ड 5

सूक्त 6

  1. ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्न्याऽ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥ १ ॥

  2. अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे। वी॒रान् नो॒ अत्र मा द॑भ॒न् तद् व॑ ए॒तत् पु॒रो द॑धे ॥ २ ॥

  3. स॒हस्र॑धार ए॒व ते सम॑स्वरन् दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ । तस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥ ३ ॥

  4. पर्यू॒ षु प्र ध॑न्वा॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ । द्वि॒षस्तदध्य॑र्ण॒वेने॑यसे सनिस्र॒सो नामा॑सि त्रयोद॒शो मास॒ इन्द्र॑स्य गृ॒हः ॥ ४ ॥

  5. न्वे॒३तेना॑रात्सीरसौ॑ स्वाहा॑ । ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥ ५ ॥

  6. अवै॒तेना॑रात्सीरसौ॒ स्वाहा॑ । ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥ ६ ॥

  7. अपै॒तेना॑रात्सीरसौ॒ स्वाहा॑ । ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥ ७ ॥

  8. मु॒मु॒क्तम॒स्मान् दु॑रि॒ताद॑व॒द्याज्जु॒षेथां य॒ज्ञम॒मृत॑म॒स्मासु॑ धत्तम् ॥ ८ ॥

  9. चक्षु॑षो हेते॒ मन॑सो हेते॒ ब्रह्म॑णो हेते॒ तप॑सश्च हेते । मे॒न्या मे॒निर॑स्यमे॒नय॒स्ते स॑न्तु॒ ये॒३स्माँ अ॑भ्यघा॒यन्ति॑ ॥ ९ ॥

  10. यो॒३ऽस्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्। त्वं तान॑ग्ने मे॒न्यामे॒नीन् कृ॑णु॒ स्वाहा॑ ॥ १० ॥

  11. इन्द्र॑स्य गृ॒होऽसि । तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरु॒षः सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥ ११ ॥

  12. इन्द्र॑स्य॒ शर्मा॑सि ।तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरु॒षः सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥ १२ ॥

  13. इन्द्र॑स्य॒ वर्मा॑सि ।तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्रवि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरु॒षः सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥ १३ ॥

  14. इन्द्र॑स्य॒ वरू॑थमसि । तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्रवि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरु॒षः सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥ १४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 7

Previous: सूक्त 5