यद्ये॑कवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ १ ॥
यदि॑ द्विवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ २ ॥
यदि॑ त्रिवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ ३ ॥
यदि॑ चतुर्वृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ ४ ॥
यदि॑ पञ्चवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ ५ ॥
यदि॑ षड्-वृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ ६ ॥
यदि॑ सप्तवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ ७ ॥
यद्य॑ष्टवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ ८ ॥
यदि॑ नववृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ ९ ॥
यदि॑ दशवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥ १० ॥
यद्ये॑काद॒शोऽसि॒ सोऽपो॑दको ऽसि ॥ ११ ॥
काण्ड 5
सूक्त 16
Reach this point to mark the section finished.
Continue to सूक्त 17