धर्मDharmic Data

काण्ड 5

सूक्त 1

  1. ऋध॑ङ्मन्त्रो॒ योनिं॒ य आ॑ब॒भूवामता॑सु॒र्वर्ध॑मानः सु॒जन्मा॑ । अद॑ब्धासु॒र्भ्राज॑मा॒नोऽहे॑व त्रि॒तो ध॒र्ता दा॑धार॒ त्रीणि॑ ॥ १ ॥

  2. आ यो धर्मा॑णि प्रथ॒मः स॒साद॒ ततो॒ वपूं॑षि कृणुषे पु॒रूणि॑ । धा॒स्युर्योनिं॑ प्रथ॒म आ वि॑वे॒शा यो वाच॒मनु॑दितां चि॒केत॑ ॥ २ ॥

  3. यस्ते॒ शोका॑य त॒न्वंऽ रि॒रेच॒ क्षर॒द्धिर॑ण्यं॒ शुच॒योऽनु॒ स्वाः । अत्रा॑ दधेते अ॒मता॑नि॒ नामा॒स्मे वस्त्रा॑णि॒ विश॒ एर॑यन्ताम् ॥ ३ ॥

  4. प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्। क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॒मेर॑येथाम् ॥ ४ ॥

  5. तदू॒ षु ते॑ म॒हत् पृ॑थुज्म॒न् नमः॑ क॒विः काव्ये॑न कृणोमि । यत् स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ॥ ५ ॥

  6. स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यंऽहु॒रो गा॑त्। आ॒योर्ह॑ स्क॒म्भ उप॑मस्य नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥ ६ ॥

  7. उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒न्वन्नसु॑रा॒त्मा त॒न्व॑१स्तत् सु॒मद्गुः॑ । उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत् सच॑ते हवि॒र्दाः ॥ ७ ॥

  8. उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑ । दर्श॒न् नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि ॥ ८ ॥

  9. अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर । अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्। क॒वि॒श॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑ ॥ ९ ॥

Reach this point to mark the section finished.

Continue to सूक्त 2

Previous: सूक्त 40