वारि॒दं वा॑रयातै वर॒णाव॑त्या॒मधि॑ । तत्रा॒मृत॒स्यासि॑क्त॒ तेना॑ ते वारये वि॒षम् ॥ १ ॥
अ॒र॒सं प्रा॒च्यंऽवि॒षम॑र॒सं यदु॑दी॒च्यऽम्। अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ॥ २ ॥
क॒र॒म्भं कृ॒त्वा ति॒र्यंऽपीबस्पा॒कमु॑दार॒थिम्। क्षु॒धा किल॑ त्वा दुष्टनो जक्षि॒वान्त्स न रू॑रुपः ॥ ३ ॥
वि ते॒ मदं॑ मदावति श॒रमि॑व पातयामसि । प्र त्वा॑ च॒रुमि॑व॒ येष॑न्तं॒ वच॑सा स्थापयामसि ॥ ४ ॥
परि॒ ग्राम॑मि॒वाचि॑तं॒ वच॑सा स्थापयामसि । तिष्ठा॑ वृ॒क्ष इ॑व॒ स्थाम्न्यभ्रि॑खाते॒ न रू॑रुपः ॥ ५ ॥
प॒वस्तै॑स्त्वा॒ पर्य॑क्रीणन् दू॒र्शेभि॑र॒जिनै॑रु॒त। प्र॒क्रीर॑सि॒ त्वमो॑ष॒धेऽभ्रि॑खाते॒ न रू॑रुपः ॥ ६ ॥
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे॑। वी॒रान्नो॒ अत्र॒ मा द॑भ॒न् तद् व॑ ए॒तत्पु॒रो द॑धे ॥ ७ ॥
काण्ड 4
सूक्त 7
Reach this point to mark the section finished.
Continue to सूक्त 8