धर्मDharmic Data

काण्ड 3

सूक्त 3

  1. अ॑चिक्रदत् स्व॒पा इ॒ह भु॑व॒दग्ने॒ व्यऽचस्व॒ रोद॑सी उरू॒ची। यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आमुं न॑य॒ नम॑सा रा॒तह॑व्यम् ॥ १ ॥

  2. दू॒रे चि॒त् सन्त॑मरु॒षास॒ इन्द्र॒मा च्या॑वयन्तु स॒ख्याय॒ विप्र॑म्। यद् गा॑य॒त्रीं बृ॑ह॒तीम॒र्कम॑स्मै सौत्राम॒ण्या दधृ॑षन्त दे॒वाः ॥ २ ॥

  3. अ॒द्भ्यस्त्वा॒ राजा॒ व॑रुणो ह्वयतु॒ सोम॑स्त्वा ह्वयतु॒ पर्व॑तेभ्यः । इन्द्र॑स्त्वा ह्वयतु वि॒ड्भ्य॑ आ॒भ्यः श्ये॒नो भू॒त्वा विश॒ आ प॑ते॒माः ॥ ३ ॥

  4. श्ये॒नो ह॒व्यं न॑य॒त्वा पर॑स्मादन्यक्षे॒त्रेअप॑रुद्धं॒ चर॑न्तम्। अ॒श्विना॒ पन्थां॑ कृणुतां सु॒गं त॑ इ॒मं स॑जाता अभि॒संवि॑शध्वम् ॥ ४ ॥

  5. ह्वय॑न्तु त्वा प्रतिज॒नाः प्रति॑ मित्रा अ॑वृषत । इ॒न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते वि॒शि क्षेम॑मदीधरन् ॥ ५ ॥

  6. यस्ते॒ हवं वि॒वद॑त् सजा॒तो यश्च॒ निष्ट्यः॑ । अ॑पाञ्चमिन्द्र॒ तं कृ॒त्वाथे॒ममि॒हाव॑ गमय ॥ ६ ॥

Reach this point to mark the section finished.

Continue to सूक्त 4

Previous: सूक्त 2