उद् घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम्। अस्ता॑रमेषि सूर्य ॥ १ ॥
नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वोजसा । अहिं॑ च वृत्र॒हाव॑धीत् ॥ २ ॥
सन॒ इन्द्रः॑ शि॒वः सखाश्वा॑व॒द् गोम॒द् यव॑मत्। उ॒रुधा॑रेव दोहते ॥ ३ ॥
इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत । पिबा वृ॑षस्व॒ तातृ॑पिम् ॥ ४ ॥
काण्ड 20
सूक्त 7
Reach this point to mark the section finished.
Continue to सूक्त 8