इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ ॥ १ ॥
इ॒च्छनश्व॑स्य॒ यच्छिरः॒ पर्वते॒ष्वप॑श्रितम्। तद् वि॑दच्छर्य॒णाव॑ति ॥ २ ॥
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्यम्। इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥ ३ ॥
काण्ड 20
सूक्त 41
Reach this point to mark the section finished.
Continue to सूक्त 42