धर्मDharmic Data

काण्ड 20

सूक्त 29

  1. त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः । स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥ १ ॥

  2. इन्द्र॒मित् के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः । उप॑ य॒ज्ञं सु॒राध॑सम् ॥ २ ॥

  3. अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः । विश्वा॒ यदज॑य॒ स्पृधः॑ ॥ ३ ॥

  4. मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः । अव॒ दस्यूं॑रधूनुथाः ॥ ४ ॥

  5. अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्यनाशयः । सो॒म॒पा उत्त॑रो॒ भव॑न् ॥ ५ ॥

Reach this point to mark the section finished.

Continue to सूक्त 30

Previous: सूक्त 28