शं नो॑ दे॒वी पृ॑श्निप॒र्ण्यशं॒ निरृ॑त्या अकः । उ॒ग्रा हि क॑ण्व॒जम्भ॑नी॒ ताम॑भक्षि॒ सह॑स्वतीम् ॥ १ ॥
सह॑माने॒यं प्र॑थ॒मा पृ॑श्निप॒र्ण्यऽजायत । तया॒हं दु॒र्णाम्नां॒ शिरो॑ वृ॒श्चामि॑ श॒कुने॑रिव ॥ २ ॥
अ॒राय॑मसृ॒क्पावा॑नं॒ यश्च॑ स्फा॒तिं जिही॑र्षति । ग॒र्भा॒दं कण्वं॑ नाशय॒ पृश्नि॑पर्णि॒ सह॑स्व च ॥ ३ ॥
गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑न् जीवित॒योप॑नान्। तांस्त्वं दे॑वि पृश्निपर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ॥ ४ ॥
परा॑च एना॒न् प्र णु॑द॒ कण्वा॑न् जीवित॒योप॑नान्। तमां॑सि॒ यत्र॒ गच्छ॑न्ति॒ तत् क्र॒व्यादो॑ अजीगमम् ॥ ५ ॥
काण्ड 2
सूक्त 25
Reach this point to mark the section finished.
Continue to सूक्त 26