धर्मDharmic Data

काण्ड 2

सूक्त 23

  1. आपो॒ यद् व॒स्तप॒स्तेन॒ तं प्रति॑ तपत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥ १ ॥

  2. आपो॒ यद् वो॒ हर॒स्तेन॒ तं प्रति॑ हरत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥ २ ॥

  3. आपो॒ यद् वो॒ऽर्चिस्तेन॒ तं प्रत्य॑र्चत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥ ३ ॥

  4. आपो॒ यद् वः॑ शो॒चिस्तेन॒ तं प्रति॑ शोचत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥ ४ ॥

  5. आपो॒ यद् व॒स्तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणुत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥ ५ ॥

Reach this point to mark the section finished.

Continue to सूक्त 24

Previous: सूक्त 22