धर्मDharmic Data

काण्ड 19

सूक्त 8

  1. यानि॒ नक्ष॑त्राणि दि॒व्य॑१न्तरि॑क्षे अ॒प्सु भूमौ॒ यानि॒ नगे॑षु दि॒क्षु। प्रक॑ल्पयंश्च॒न्द्रमा॒ यान्येति॒ सर्वा॑णि॒ ममै॒तानि॑ शि॒वानि॑ सन्तु ॥ १ ॥

  2. अ॒ष्टा॒विं॒शानि॑ शि॒वानि॑ श॒ग्मानि॑ स॒ह योगं॑ भजन्तु मे । योगं॒ प्र प॑द्ये॒ क्षेमं॑ च॒ क्षेमं॒ प्र प॑द्ये॒ योगं॑ च॒ नमो॑ऽहोरा॒त्राभ्या॑मस्तु ॥ २ ॥

  3. स्वस्ति॑तं मे सुप्रा॒तः सु॑सा॒यं सु॑दि॒वं सु॑मृ॒गं सु॑श॒कुनं॑ मे अस्तु । सु॒हव॑मग्ने स्व॒स्त्य॑१मर्त्यं॑ ग॒त्वा पुन॒राया॑भि॒नन्द॑न् ॥ ३ ॥

  4. अ॒नु॒ह॒वं प॑रिह॒वं प॑रिवा॒दं प॑रिक्ष॒वम्। सर्वै॑र्मे रिक्तकु॒म्भान् परा॒ तान् स॑वितः सुव ॥ ४ ॥

  5. अ॒प॒पा॒पं प॑रिक्ष॒वं पुण्यं॑ भक्षी॒महि॒ क्षव॑म्। शि॒वा ते॑ पाप॒ नासि॑कां॒ पुण्य॑गश्चा॒भि मे॑हताम् ॥ ५ ॥

  6. इ॒मा या ब्र॑ह्मणस्पते॒ विषु॑ची॒र्वात॒ ईर॑ते । स॒ध्रीची॑रिन्द्र॒ ताः कृ॒त्वा मह्यं॑ शि॒वत॑मास्कृधि ॥ ६ ॥

  7. स्व॒स्ति नो॑ अ॒स्त्वभ॑यं नो अस्तु॒ नमो॑ऽहोर॒त्राभ्या॑मस्तु ॥ ७ ॥

Reach this point to mark the section finished.

Continue to सूक्त 9

Previous: सूक्त 7