धर्मDharmic Data

काण्ड 19

सूक्त 64

  1. अग्ने॑ स॒मिध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे । स मे॑ श्र॒द्धां च॑ मे॒धां च॑ जा॒तवे॑दाः॒ प्र य॑च्छतु ॥ १ ॥

  2. इ॒ध्मेन॑ त्वा जातवेदः स॒मिधा॑ वर्धयामसि । तथा॒ त्वम॒स्मान् व॑र्धय प्र॒जया॑ च॒ धने॑न च ॥ २ ॥

  3. यद॑ग्ने॒ यानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । सर्वं॒ तद॑स्तु मे शि॒वं तज्जु॑षस्व यविष्ठ्य ॥ ३ ॥

  4. ए॒तास्ते॑ अग्ने स॒मिध॒स्त्वमि॒द्धः स॒मिद् भव । आयु॑र॒स्मासु॑ धेह्यमृत॒त्वमा॑चा॒र्याय ॥ ४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 65

Previous: सूक्त 63