धर्मDharmic Data

काण्ड 19

सूक्त 48

  1. अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑ । तानि॑ ते॒ परि॑ दद्मसि ॥ १ ॥

  2. रात्रि॒ मात॑रु॒षसे॑ नः॒ परि॑ देहि । उ॒षा नो॒ अह्ने॒ परि॑ ददा॒त्वह॒स्तुभ्यं॑ विभावरि ॥ २ ॥

  3. यत् किं चे॒दं प॒तय॑ति यत् किं चे॒दं स॑रीसृ॒पम्। यत् किं च॒ पर्व॑ताया॒सत्वं॒ तस्मा॒त् त्वं रा॑त्रि पाहि नः ॥ ३ ॥

  4. सा प॒श्चात् पा॑हि॒ सा पु॒रः सोत्त॒राद॑ध॒रादु॒त। गो॒पाय॑ नो विभावरि स्तो॒तार॑स्त इ॒ह स्म॑सि ॥ ४ ॥

  5. ये रात्रि॑मनु॒तिष्ठ॑न्ति॒ ये च॑ भू॒तेषु॒ जाग्र॑ति । प॒शून् ये सर्वा॒न् रक्ष॑न्ति॒ ते न॑ आ॒त्मसु॑ जाग्रति॒ ते नः॑ प॒शुषु॑ जाग्रति ॥ ५ ॥

  6. वेद॒ वै रा॑त्रि ते॒ नाम॑ घृ॒ताची॒ नाम॒ वा अ॑सि । तां त्वां भ॒रद्वा॑जो वेद॒ सा नो॑ वि॒त्तेऽधि॑ जाग्रति ॥ ६ ॥

Reach this point to mark the section finished.

Continue to सूक्त 49

Previous: सूक्त 47