न तं यक्ष्मा॒ अरु॑न्धते॒ नैनं॑ श॒पथो॑ अश्नुते । यं भे॑ष॒जस्य॑ गुल्गु॒लोः सु॑र॒भिर्ग॒न्धो अ॑श्नु॒ते ॥ १ ॥
विष्व॑ञ्च॒स्तस्मा॒द् यक्ष्मा॑ मृ॒गा अश्वा॑ इवेरते । यद् गु॑ल्गु॒लु सै॑न्ध॒वं यद् वाप्यासि॑ समु॒द्रिय॑म् ॥ २ ॥
उ॒भयो॑रग्रभं॒ नामा॒स्मा अ॑रि॒ष्टता॑तये ॥ ३ ॥
काण्ड 19
सूक्त 38
Reach this point to mark the section finished.
Continue to सूक्त 39