धर्मDharmic Data

काण्ड 19

सूक्त 34

  1. जा॒ङ्गि॒डोऽसि जङ्गि॒डो रक्षि॑तासि जङ्गि॒डः । द्वि॒पाच्चतु॑ष्पाद॒स्माकं॒ सर्वं॑ रक्षतु जङ्गि॒डः ॥ १ ॥

  2. या गृत्स्य॑स्त्रिपञ्चा॒शीः श॒तं कृ॑त्या॒कृत॑श्च॒ ये। सर्वा॑न् विनक्तु॒ तेज॑सोऽर॒सां ज॑ङ्गि॒डस्क॑रत् ॥ २ ॥

  3. अ॒र॒सं कृ॒त्रिमं॑ ना॒दम॑र॒साः स॒प्त विस्र॑सः । अपे॒तो ज॑ङ्गि॒डाम॑ति॒मिषु॒मस्ते॑व शातय ॥ ३ ॥

  4. कृ॒त्या॒दूष॑ण ए॒वायमथो॑ अराति॒दूष॑णः । अथो॒ सह॑स्वां जङ्गि॒डः प्र ण आयूं॑षि तारिषत् ॥ ४ ॥

  5. स ज॑ङ्गि॒डस्य॑ महि॒मा परि॑ णः पातु वि॒श्वतः॑ । विष्क॑न्धं॒ येन॑ सा॒सह॒ संस्क॑न्ध॒मोज॒ ओज॑सा ॥ ५ ॥

  6. त्रिष्ट्वा॑ दे॒वा अ॑जनय॒न् निष्ठि॑तं॒ भूम्या॒मधि॑ । तमु॒ त्वाङ्गि॑रा॒ इति॑ ब्राह्म॒णाः पू॒र्व्या वि॑दुः ॥ ६ ॥

  7. न त्वा॒ पूर्वा॒ ओष॑धयो॒ न त्वा॑ तरन्ति॒ या नवाः॑ । विबा॑ध उ॒ग्रो ज॑ङ्गि॒डः प॑रि॒पाणः॑ सुम॒ङ्गलः॑ ॥ ७ ॥

  8. अथो॑पदान भगवो॒ जाङ्गि॒डामि॑तवीर्य । पु॒रा त॑ उ॒ग्रा ग्र॑सत॒ उपेन्द्रो॑ वी॒र्यं ददौ ॥ ८ ॥

  9. उ॒ग्र इत् ते॑ वनस्पत॒ इन्द्र॑ ओ॒ज्मान॒माद॑धौ । अमी॑वाः॒ सर्वा॑श्चा॒तयं॑ ज॒हि रक्षां॑स्योषधे ॥ ९ ॥

  10. आश॑रीकं॒ विश॑रीकं ब॒लासं॑ पृष्ट्याम॒यम्। त॒क्मानं॑ वि॒श्वशा॑रदमर॒सां ज॑ङ्गि॒डस्क॑रत् ॥ १० ॥

Reach this point to mark the section finished.

Continue to सूक्त 35

Previous: सूक्त 33