धर्मDharmic Data

काण्ड 19

सूक्त 2

  1. शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः । शं ते॑ सनि॒ष्यदा॒ आपः॒ शमु॑ ते सन्तु व॒र्ष्याः ॥ १ ॥

  2. शं त॒ आपो॑ धन्व॒न्याः॒३ शं ते॑ सन्त्वनू॒प्याः । शं ते॑ खनि॒त्रिमा॒ आपः॒ शं याः कु॒म्भेभि॒राभृ॑ताः ॥ २ ॥

  3. अ॒न॒भ्रयः॒ खन॑माना॒ विप्रा॑ गम्भी॒रे अ॒पसः॑ । भि॒षग्भ्यो॑ भि॒षक्त॑रा॒ आपो॒ अच्छा॑ वदामसि ॥ ३ ॥

  4. अ॒पामह॑ दि॒व्याऽनाम॒पां स्रो॑त॒स्याऽनाम्। अ॒पामह॑ प्र॒णेज॒नेऽश्वा॑ भवथ वा॒जिनः॑ ॥ ४ ॥

  5. ता अ॒पः शि॒वा अ॒पोऽय॑क्ष्मं॒कर॑णीर॒पः । यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेष॒जीः ॥ ५ ॥

Reach this point to mark the section finished.

Continue to सूक्त 3

Previous: सूक्त 1