धर्मDharmic Data

काण्ड 16

सूक्त 7

  1. तेनै॑नं विध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ॥ १ ॥

  2. दे॒वाना॑मेनं घो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ॥ २ ॥

  3. वै॒श्वा॒न॒रस्यै॑नं॒ दंष्ट्र॑यो॒रपि॑ दधामि ॥ ३ ॥

  4. ए॒वाने॒वाव॒ सा ग॑रत् ॥ ४ ॥

  5. यो॒३स्मान् द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु ॥ ५ ॥

  6. निर्द्वि॒षन्तं॑ दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद् भजाम ॥ ६ ॥

  7. सुया॑मंश्चाक्षुष ॥ ७ ॥

  8. इ॒दम॒हमा॑मुष्याय॒णे॒३मुष्याः॑ पु॒त्रे दु॒ष्वप्न्यं॑ मृजे ॥ ८ ॥

  9. यद॒दोअ॑दो अ॒भ्यग॑च्छन् यद् दो॒षा यत् पूर्वां॒ रात्रि॑म् ॥ ९ ॥

  10. यज्जाग्र॑द् यत् सु॒प्तो यद् दिवा॒ यन्नक्त॑म् ॥ १० ॥

  11. यदह॑रहरभि॒गच्छा॑मि॒ तस्मा॑देन॒मव॑ दये ॥ ११ ॥

  12. तं ज॑हि॒ तेन॑ मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥ १२ ॥

  13. स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ॥ १३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 8

Previous: सूक्त 6