धर्मDharmic Data

काण्ड 15

सूक्त 3

  1. स सं॑वत्स॒रमू॒र्ध्वोऽतिष्ठ॒त् तं दे॒वा अ॑ब्रुव॒न् व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑ ॥ १ ॥

  2. सो॑ऽब्रवीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ॥ २ ॥

  3. तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन् ॥ ३ ॥

  4. तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ॥ ४ ॥

  5. बृ॒हच्च॑ रथंत॒रं चा॑नू॒च्ये॒३ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये ॥ ५ ॥

  6. ऋचः॒ प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ॥ ६ ॥

  7. वेद॑ आ॒स्तर॑णं॒ ब्रह्मो॑प॒बर्ह॑णम् ॥ ७ ॥

  8. सामा॑सा॒द उ॑द्गी॒थोऽपश्र॒यः ॥ ८ ॥

  9. तामा॑स॒न्दीं व्रात्य॒ आरो॑हत् ॥ ९ ॥

  10. तस्य॑ देवज॒नाः प॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒३ विश्वा॑नि भू॒तान्यु॑प॒सदः॑ ॥ १० ॥

  11. विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ॥ ११ ॥

Reach this point to mark the section finished.

Continue to सूक्त 4

Previous: सूक्त 2