धर्मDharmic Data

काण्ड 15

सूक्त 13

  1. तद् यस्यै॒वं वि॒द्वान् व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥ १ ॥

  2. ये पृ॑थि॒व्यां पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥ २ ॥

  3. तद् यस्यै॒वं वि॒द्वान् व्रात्यो॑ द्वि॒तीयां॑ रात्रि॒मतिथि॑र्गृ॒हे वस॑ति ॥ ३ ॥

  4. ये॒३न्तरि॑क्षे॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥ ४ ॥

  5. तद् यस्यै॒वं वि॒द्वान् व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥ ५ ॥

  6. ये दि॒वि पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥ ६ ॥

  7. तद् यस्यै॒वं वि॒द्वान् व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥ ७ ॥

  8. ये पुण्या॑नां॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥ ८ ॥

  9. तद् यस्यै॒वं वि॒द्वान् व्रात्योऽप॑रिमिता॒ रात्री॒रति॑थिर्गृ॒हे वस॑ति ॥ ९ ॥

  10. य ए॒वाप॑रिमिताः॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥ १० ॥

  11. अथ॒ यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त् ॥ ११ ॥

  12. कर्षे॑देनं॒ न चै॑नं कर्षे॑त् ॥ १२ ॥

  13. अ॒स्यै दे॒वता॑या उद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒ परि॑ वेविष्यात् ॥ १३ ॥

  14. तस्या॑मे॒वास्य॒ तद् दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥ १४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 14

Previous: सूक्त 12