उ॒रुः पृ॒थुः सु॒भूर्भुव॒ इति॒ त्वोपा॑स्महे व॒यम् । नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰ ॥ ५२ ॥
प्रथो॒ वरो॒ व्यचो॑ लो॒क इति॒ त्वोपा॑स्महे व॒यम्। नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰ ॥ ५३ ॥
भव॑द्वसुरि॒दद्व॑सुः सं॒यद्व॑सुरा॒यद्व॑सु॒रिति॒ त्वोपा॑स्महे व॒यम् ॥ ५४ ॥
नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ॥ ५५ ॥
अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ॥ ५६ ॥
काण्ड 13
सूक्त 9
Reach this point to mark the section finished.
Continue to सूक्त 1