धर्मDharmic Data

काण्ड 13

सूक्त 6

  1. ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च । य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥ २२ ॥

  2. भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥ २३ ॥

  3. य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥ २४ ॥

  4. स ए॒व मृ॒त्युः सो॒३ऽमृतं॒ सो॒३ऽभ्वं॑१ स रक्षः॑ ॥ २५ ॥

  5. स रु॒द्रो व॑सु॒वनि॑र्वसु॒देये॑ नमोवा॒के व॑षट्का॒रोऽनु॒ संहि॑तः ॥ २६ ॥

  6. तस्ये॒मे सर्वे॑ या॒तव॒ उप॑ प्र॒शिष॑मासते ॥ २७ ॥

  7. तस्या॒मू सर्वा॒ नक्ष॑त्रा॒ वशे॑ च॒न्द्रम॑सा स॒ह ॥ २८ ॥

Reach this point to mark the section finished.

Continue to सूक्त 7

Previous: सूक्त 5