तस्यौ॑द॒नस्य॒ बृहस्पतिः॒ शिरो॒ ब्रह्म॒ मुख॑म् ॥ १ ॥
द्यावा॑पृथि॒वी श्रोत्रे॑ सूर्याचन्द्र॒मसा॒वक्षि॑णी सप्तऋ॒षयः॑ प्राणापा॒नाः ॥ २ ॥
चक्षु॒र्मुस॑लं॒ काम॑ उ॒लूख॑लम् ॥ ३ ॥
दितिः॒ शूर्प॒मदि॑तिः शूर्पग्रा॒ही वातोऽपा॑विनक् ॥ ४ ॥
अश्वाः॒ कणा॒ गाव॑स्तण्डु॒ला म॒शका॒स्तुषाः॑ ॥ ५ ॥
कब्रु॑ फली॒कर॑णाः॒ शरो॒ऽभ्रम् ॥ ६ ॥
श्या॒ममयो॑ऽस्य मां॒सानि॒ लोहि॑तमस्य॒ लोहि॑तम् ॥ ७ ॥
त्रपु॒ भस्म॒ हरि॑तं॒ वर्णः॒ पुष्क॑रमस्य ग॒न्धः ॥ ८ ॥
खलः॒ पात्रं॒ स्फ्यावंसा॑वी॒षे अ॑नू॒क्येऽ ॥ ९ ॥
आ॒न्त्राणि॑ ज॒त्रवो॒ गुदा॑ वर॒त्राः ॥ १० ॥
इ॒यमे॒व पृ॑थि॒वी कु॒म्भी भ॑वति॒ राध्य॑मानस्यौद॒नस्य॒ द्यौर॑पि॒धान॑म् ॥ ११ ॥
सीताः॒ पर्श॑वः॒ सिक॑ता॒ ऊब॑ध्यम् ॥ १२ ॥
ऋ॒तं ह॑स्ताव॒नेज॑नं कु॒ल्योऽप॒सेच॑नम् ॥ १३ ॥
ऋ॒चा कु॒म्भ्यधि॑हि॒तार्त्विज्येन॒ प्रेषि॑ता ॥ १४ ॥
ब्रह्म॑णा॒ परि॑गृहीता॒ साम्ना॒ पर्यू॑ढा ॥ १५ ॥
बृ॒हदा॒यव॑नं रथन्त॒रं दर्विः॑ ॥ १६ ॥
ऋ॒तवः॑ प॒क्तार॑ आर्त॒वाः समि॑न्धते ॥ १७ ॥
च॒रुं पञ्च॑बिलमु॒खं घ॒र्मो॒३भी॑न्धे ॥ १८ ॥
ओ॒द॒नेन॑ यज्ञव॒चः सर्वे॑ लो॒काः स॑मा॒प्याः ॥ १९ ॥
यस्मि॑न्त्समु॒द्रो द्यौर्भूमि॒स्त्रयो॑ऽवरप॒रं श्रि॒ताः ॥ २० ॥
यस्य॑ दे॒वा अक॑ल्प॒न्तोच्छि॑ष्टे॒ षड॑शी॒तयः॑ ॥ २१ ॥
तं त्वौ॑द॒नस्य॑ पृच्छामि॒ यो अ॑स्य महि॒मा म॒हान् ॥ २२ ॥
स य ओ॑द॒नस्य॑ महि॒मानं॑ वि॒द्यात् ॥ २३ ॥
नाल्प॒ इति॑ ब्रूया॒न्नानु॑पसेच॒न इति॒ नेदं च॒ किं चेति॑ ॥ २४ ॥
याव॑द् दा॒ताभि॑मन॒स्येत॒ तन्नाति॑ वदेत् ॥ २५ ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ परा॑ञ्चमोद॒नं प्राशीः३ प्र॒त्यञ्चा३मिति॑ ॥ २६ ॥
त्वमो॑द॒नं प्राशी३स्त्वामो॑द॒ना३ इति॑ ॥ २७ ॥
परा॑ञ्चं चैनं॒ प्राशीः॑ प्रा॒णास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥ २८ ॥
प्र॒त्यञ्चं॑ चैनं॒ प्राशी॑रपा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥ २९ ॥
नैवाहमो॑द॒नं न मामो॑द॒नः ॥ ३० ॥
ओ॒द॒न ए॒वौद॒नं प्राशी॑त् ॥ ३१ ॥
(२) ३२-४९ मन्त्रोक्ताः। ३२, ३८, ४१ (प्रथमा), ३२-४९ (सप्तमी) साम्नी त्रिष्टुप्, ३२, ३५,४२ (द्वितीया), ३२-४९ (तृतीया) ३३-३४, ४४-४८ (पञ्चमी) एकपदाऽऽसुरी गायत्री, ३२, ४१, ४३, ४७ दैवी जगती, ३८, ४४, ४६ (द्विo), ३२, ३५-४३, ४९ (पञ्चo) एकपदाऽऽसुर्यनुष्टुप्, ३२-४९ (षष्ठी) साम्न्यनुष्टुप्, ३२-४९ (प्रo) आर्च्यनुष्टुप्, ३७ (प्रo) साम्नी पङ्क्तिः, ३३, ३६, ४०, ४७-४८ (द्विo) आसुरी जगती, ३४, ३७, ४१, ४३, ४५ (द्विo) आसुरी पङ्क्तिः, ३४ (चo) आसुरी त्रिष्टुप्, ३५, ४६, ४८ (चo) याजुषी गायत्री, ३६-३७, ४० (चo) दैवी पङ्क्तिः ३८-३९ (चo) प्राजापत्या गायत्री, ३९ (द्विo) आसुर्युष्णिक्, ४२, ४५, ४९ (चo) दैवी त्रिष्टुप्, ४९ (द्विo) एकपदा भुरिक्साम्नी बृहती। तत॑श्चैनम॒न्येन॑ शी॒र्ष्णा प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
ज्ये॒ष्ठ॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॑ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
बृह॒स्पति॑ना शी॒र्ष्णा ॥ ४ ॥
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
३२॥ तत॑श्चैनम॒न्याभ्यां॒ श्रोत्रा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
ब॒धि॒रो भ॑विष्य॒सीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
द्यावा॑पृथि॒वीभ्यां॒ श्रोत्रा॑भ्याम् ॥ ४ ॥
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
३३॥ तत॑श्चैनम॒न्याभ्या॑म॒क्षीभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
अ॒न्धो भ॑वि॒ष्य॒सीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
सू॒र्या॒च॒न्द्र॒म॒साभ्या॑म॒क्षीभ्या॑म् ॥ ४ ॥
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्वपरुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
३४॥ तत॑श्चैनम॒न्येन॒ मुखे॑न॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
मु॒ख॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
ब्रह्म॑णा॒ मुखे॑न ॥ ४ ॥
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
३५॥ तत॑श्चैनम॒न्यया॑ जि॒ह्वया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
जि॒ह्वा ते॑ मरिष्य॒तीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
अ॒ग्नेर्जि॒ह्वया॑ ॥ ४ ॥
तयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
३६॥ तत॑श्चैनम॒न्यैर्दन्तैः॒ प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
दन्ता॑स्ते शत्स्य॒न्तीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
ऋ॒तुभि॒र्दन्तैः॑ ॥ ४ ॥
तैरे॑नं॒ प्राशि॑षं॒ तैरे॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
३७॥ तत॑श्चैनम॒न्यैः प्रा॑णापा॒नैः प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
प्रा॒णा॒पा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
स॒प्त॒ऋषिभिः॑ प्राणापा॒नैः ॥ ४ ॥
तैरे॑नं॒ प्राशि॑षं॒ तैरे॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
३८॥ तत॑श्चैनम॒न्येन॒ व्यच॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
रा॒ज॒य॒क्ष्मस्त्वा॑ हनिष्य॒तीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
अ॒न्तरि॑क्षेण॒ व्यच॑सा ॥ ४ ॥
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
३९॥ तत॑श्चैनम॒न्येन॑ पृ॒ष्ठेन॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
वि॒द्युत् त्वा॑ हनिष्य॒तीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
दि॒वा पृ॒ष्ठेन॑ ॥ ४ ॥
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४०॥ तत॑श्चैनम॒न्येनोर॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
कृ॒ष्या न रा॑त्स्य॒सीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
पृ॒थि॒व्योर॑सा ॥ ४ ॥
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४१॥ तत॑श्चैनम॒न्येनो॒दरे॑ण॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
उ॒द॒र॒दा॒रस्त्वा॑ हनिष्य॒तीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
स॒त्येनो॒दरे॑ण ॥ ४ ॥
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४२॥ तत॑श्चैनम॒न्येन॑ व॒स्तिना॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
अ॒प्सु म॑रिष्य॒सीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
स॒मु॒द्रेण॑ व॒स्तिना॑ ॥ ४ ॥
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४३॥ तत॑श्चैनम॒न्याभ्या॑मू॒रुभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
ऊ॒रू ते॑ मरिष्यत॒ इत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
मि॒त्राव॑रुणयोरू॒रुभ्या॑म् ॥ ४ ॥
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४४॥ तत॑श्चैनम॒न्याभ्या॑मष्ठी॒वद्भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
स्रा॒मो भ॑विष्य॒सीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
त्वष्टु॑रष्ठी॒वद्भ्या॑म् ॥ ४ ॥
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४५॥ तत॑श्चैनम॒न्याभ्यां॒ पादा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
ब॒हुचा॒री भ॑विष्य॒सीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
अ॒श्विनोः॒ पादा॑भ्याम् ॥ ४ ॥
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४६॥ तत॑श्चैनम॒न्याभ्यां॒ प्रप॑दाभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
स॒र्पस्त्वा॑ हनिष्य॒तीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
स॒वि॒तुः प्रप॑दाभ्याम् ॥ ४ ॥
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४७॥ तत॑श्चैनम॒न्याभ्यां॒ हस्ता॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
ब्रा॒ह्म॒णं ह॑निष्य॒सीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
ऋ॒तस्य॒ हस्ता॑भ्याम् ॥ ४ ॥
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४८॥ तत॑श्चैनम॒न्यया॑ प्रति॒ष्ठया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न् ॥ १ ॥
अ॒प्र॒ति॒ष्ठा॒नोऽनायत॒नो म॑रिष्य॒सीत्ये॑नमाह ॥ २ ॥
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म् ॥ ३ ॥
स॒त्ये प्र॑ति॒ष्ठाय॑ ॥ ४ ॥
तयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम् ॥ ५ ॥
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः ॥ ६ ॥
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥ ७ ॥
४९॥ (३) ५०-५६ मन्त्रोक्ताः। ५० आसुर्यनुष्टुप्, ५१ आर्च्युष्णिक्, ५२ त्रिपदा भुरिक्साम्नी त्रिष्टुप्, ५३ आसुरी बृहती, ५४ द्विपदा भुरिक्साम्नी बृहती, ५५ साम्न्युष्णिक्, ५६ प्राजापत्या बृहती। ए॒तद् वै ब्र॒ध्नस्य॑ वि॒ष्टपं॒ यदो॑द॒नः ॥ ५० ॥
ब्र॒ध्नलो॑को भवति ब्र॒ध्नस्य॑ वि॒ष्टपि॑ श्रयते॒ य ए॒वं वेद॑ ॥ ५१ ॥
ए॒तस्मा॒द् वा ओ॑द॒नात् त्रय॑स्त्रिंशतं लो॒कान् निर॑मिमीत प्र॒जाप॑तिः ॥ ५२ ॥
तेषां॑ प्र॒ज्ञाना॑य य॒ज्ञम॑सृजत ॥ ५३ ॥
स य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भ॑वति प्रा॒णं रु॑णद्धि ॥ ५४ ॥
न च॑ प्रा॒णं रु॒णद्धि॑ सर्वज्या॒निं जी॑यते ॥ ५५ ॥
न च॑ सर्वज्या॒निं जी॒यते॑ पु॒रैनं॑ ज॒रसः॑ प्रा॒णो ज॑हाति ॥ ५६ ॥
काण्ड 11
सूक्त 3
Reach this point to mark the section finished.
Continue to सूक्त 4