धर्मDharmic Data

काण्ड 10

सूक्त 10

  1. २९ त्रिपदा विराड् गायत्री, ३१ उष्णिग्गर्भा, ३२ विराट् पथ्याबृहती। नम॑स्ते॒ जाय॑मानायै जा॒ताया॑ उ॒त ते॒ नमः॑ । बाले॑भ्यः श॒फेभ्यो॑ रू॒पाया॑घ्न्ये ते॒ नमः॑ ॥ १ ॥

  2. यो वि॒द्यात् स॒प्त प्र॒वतः॑ स॒प्त वि॒द्यात् प॑रा॒वतः॑ । शिरो॑ य॒ज्ञस्य॒ यो वि॒द्यात् स व॒शां प्रति॑ गृह्णीयात् ॥ २ ॥

  3. वेदा॒हं स॒प्त प्र॒वतः॑ स॒प्त वे॑द परा॒वतः॑ । शिरो॑ य॒ज्ञस्या॒हं वे॑द॒ सोमं॑ चास्यां विचक्ष॒णम् ॥ ३ ॥

  4. यया॒ द्यौर्यया॑ पृथि॒वी ययापो॑ गुपि॒ता इ॒माः। व॒शां स॒हस्र॑धारां॒ ब्रह्म॑णा॒च्छाव॑दामसि ॥ ४ ॥

  5. श॒तं कं॒साः श॒तं दो॒ग्धारः॑ श॒तं गो॒प्तारो॒ अधि॑ पृ॒ष्ठे अ॑स्याः । ये दे॒वास्तस्यां॑ प्रा॒णन्ति॒ ते व॒शां वि॑दुरेक॒धा ॥ ५ ॥

  6. य॒ज्ञ॒प॒दीरा॑क्षीरा स्व॒धाप्रा॑णा म॒हीलु॑का । व॒शा प॒र्जन्य॑पत्नी दे॒वाँ अप्ये॑ति॒ ब्रह्म॑णा ॥ ६ ॥

  7. अनु॑ त्वा॒ग्निः प्रावि॑श॒दनु॒ सोमो॑ वशे त्वा । ऊध॑स्ते भद्रे प॒र्जन्यो॑ वि॒द्युत॑स्ते॒ स्तना॑ वशे ॥ ७ ॥

  8. अ॒पस्त्वं धु॑क्षे प्रथ॒मा उ॒र्वरा॒ अप॑रा वशे । तृ॒तीयं॑ रा॒ष्ट्रं धु॒क्षेऽन्नं॑ क्षी॒रं व॑शे॒ त्वम् ॥ ८ ॥

  9. यदा॑दि॒त्यैर्हू॒यमा॑नो॒पाति॑ष्ठ ऋतवरि । इन्द्रः॑ स॒हस्रं॒ पात्रा॒न्त्सोमं॑ त्वापाययद् वशे ॥ ९ ॥

  10. यद॒नूचीन्द्र॒मैरात् त्व॑ ऋष॒भोऽह्वयत्। तस्मा॑त् ते वृत्र॒हा पयः॑ क्षी॒रं क्रु॒द्धोऽहरद् वशे ॥ १० ॥

  11. यत् ते॑ क्रु॒द्धो धन॑पति॒रा क्षी॒रमह॑रद् वशे । इ॒दं तद॒द्य नाक॑स्त्रि॒षु पात्रे॑षु रक्षति ॥ ११ ॥

  12. त्रि॒षु पात्रे॑षु॒ तं सोम॒मा दे॒व्यऽहरद् व॒शा। अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑ ॥ १२ ॥

  13. सं हि सोमे॒नाग॑त॒ समु॒ सर्वे॑ण प॒द्वता॑ । व॒शा स॑मु॒द्रमध्य॑ष्ठाद् गन्धर्वैः क॒लिभिः॑ स॒ह ॥ १३ ॥

  14. सं हि वाते॒नाग॑त॒ समु॒ सर्वैः॑ पत॒त्रिभिः॑ । व॒शा स॑मु॒द्रे प्रानृ॑त्य॒दृचः॒ सामा॑नि॒ बिभ्र॑ती ॥ १४ ॥

  15. सं हि सूर्ये॒णाग॑त॒ समु॒ सर्वे॑ण॒ चक्षु॑षा । व॒शा स॑मु॒द्रमत्य॑ख्यद् भ॒द्रा ज्योतीं॑षि॒ बिभ्र॑ती ॥ १५ ॥

  16. अ॒भीवृ॑ता॒ हिर॑ण्येन॒ यदति॑ष्ठ ऋतावरि । अश्वः॑ समु॒द्रो भू॒त्वाध्य॑स्कन्दद् वशे त्वा ॥ १६ ॥

  17. तद् भ॒द्राः सम॑गच्छन्त व॒शा देष्ट्र्यथो॑ स्व॒धा। अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑ ॥ १७ ॥

  18. व॒शा मा॒ता रा॑ज॒न्यऽस्य व॒शा मा॒ता स्व॑धे॒ तव॑ । व॒शाया॑ य॒ज्ञ आयु॑धं॒ तत॑श्चि॒त्तम॑जायत ॥ १८ ॥

  19. ऊ॒र्ध्वो बि॒न्दुरुद॑चर॒द् ब्रह्म॑णः॒ ककु॑दा॒दधि॑ । तत॒स्त्वं ज॑ज्ञिषे वशे॒ ततो॒ होता॑जायत ॥ १९ ॥

  20. आ॒स्नस्ते॒ गाथा॑ अभवन्नु॒ष्णिहा॑भ्यो॒ बलं॑ वशे । पा॒ज॒स्याऽज्जज्ञे य॒ज्ञ स्तने॑भ्यो र॒श्मय॒स्तव॑ ॥ २० ॥

  21. ई॒र्माभ्या॒मय॑नं जा॒तं सक्थि॑भ्यां च वशे॒ तव॑ । आ॒न्त्रेभ्यो॑ जज्ञिरे अ॒त्रा उ॒दरा॒दधि॑ वी॒रुधः॑ ॥ २१ ॥

  22. यदु॒दरं॒ वरु॑णस्यानु॒प्रावि॑शथा वशे । तत॑स्त्वा ब्र॒ह्मोद॑ह्वय॒त् स हि ने॒त्रमवे॒त् तव॑ ॥ २२ ॥

  23. सर्वे॒ गर्भा॑दवेपन्त॒ जाय॑मानादसू॒स्वः । स॒सूव॒ हि तामा॒हुव॒शेति॒ ब्रह्म॑भिः क्लृप्तः स ह्यऽस्या॒ बन्धुः॑ ॥ २३ ॥

  24. युध॒ एकः॒ सं सृ॑जति॒ यो अ॑स्या॒ एक॒ इद् व॒शी। तरां॑सि य॒ज्ञा अ॑भव॒न् तर॑सां॒ चक्षु॑रभवद् व॒शा ॥ २४ ॥

  25. व॒शा य॒ज्ञं प्रत्य॑गृह्णाद् व॒शा सूर्य॑मधारयत्। व॒शाया॑म॒न्तर॑विशदोद॒नो ब्र॒ह्मणा॑ स॒ह ॥ २५ ॥

  26. व॒शामे॒वामृत॑माहुर्व॒शां मृ॒त्युमुपा॑सते । व॒शेदं सर्व॑मभवद् दे॒वा म॑नु॒ष्या॒३ असु॑राः पि॒तर॒ ऋष॑यः ॥ २६ ॥

  27. य ए॒वं वि॒द्यात् स व॒शां प्रति॑ गृह्णीयात्। तथा॑ हि य॒ज्ञः सर्व॑पाद् दु॒हे दा॒त्रेऽन॑पस्फुरन् ॥ २७ ॥

  28. ति॒स्रो जि॒ह्वा वरु॑णस्या॒न्तर्दी॑द्यत्या॒सनि॑ । तासां॒ या मध्ये॒ राज॑ति॒ सा व॒शा दु॑ष्प्रति॒ग्रहा॑ ॥ २८ ॥

  29. च॒तु॒र्धा रेतो॑ अभवद् व॒शायाः॑ । आप॒स्तुरी॑यम॒मृतं॒ तुरी॑यं य॒ज्ञस्तुरी॑यं प॒शव॒स्तुरी॑यम् ॥ २९ ॥

  30. व॒शा द्यौर्व॒शा पृ॑थि॒वी व॒शा विष्णुः॑ प्र॒जाप॑तिः । व॒शाया॑ दु॒ग्धम॑पिबन्त्सा॒ध्या वस॑वश्च॒ ये ॥ ३० ॥

  31. व॒शाया॑ दु॒ग्धं पी॒त्वा सा॒ध्या वस॑वश्च॒ ये । ते वै ब्र॒ध्नस्य॑ वि॒ष्टपि॑ पयो॑ अस्या॒ उपा॑सते ॥ ३१ ॥

  32. सोम॑मेना॒मेके॑ दुह्रे घृ॒तमेक॒ उपा॑सते । य ए॒वं वि॒दुषे॑ व॒शां द॒दुस्ते ग॒तास्त्रि॑दि॒वं दि॒वः ॥ ३२ ॥

  33. ब्रा॒ह्म॒णेभ्यो॑ व॒शां द॒त्त्वा सर्वां॑ल्लो॒कान्त्सम॑श्नुते । ऋ॒तं ह्य॒ऽस्या॒मार्पि॑त॒मपि॒ ब्रह्माथो तपः॑ ॥ ३३ ॥

  34. व॒शां दे॒वा उप॑ जीवन्ति व॒शां म॑नु॒ष्याऽउ॒त। व॒शेदं सर्व॑मभव॒द् याव॒त् सूर्यो॑ वि॒पश्य॑ति ॥ ३४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 1

Previous: सूक्त 9