शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥ १ ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा।अ॒ग्निं च॑ वि॒श्वशं॑ भुवम् ॥ २ ॥
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३ म॑म । ज्योक् च॒ सूर्यं॑ दृ॒शे॑ ॥ ३ ॥
शं न॒ आपो॑ धन्व॒न्या॒३ शमु॑ सन्त्वनू॒प्याः । शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥ ४ ॥
काण्ड 1
सूक्त 6
Reach this point to mark the section finished.
Continue to सूक्त 7