अ॒मूः पा॒रे पृ॑दा॒क्व ऽ स्त्रिष॒प्ता निर्ज॑रायवः । तासां॑ ज॒रायु॑भिर्व॒यम॒क्ष्या॒वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ॥ १ ॥
विषू॑च्येतु कृन्त॒ती पिना॑कमिव॒ बिभ्र॑ती । विष्व॑क् पुन॒र्भुवा॒ मनोऽस॑मृद्धा अघा॒यवः॑ ॥ २ ॥
न ब॒हवः॒ सम॑शक॒न् नार्भ॒का अ॒भि दा॑धृषुः । वे॒णोरद्गा॑ इवा॒भितोऽस॑मृद्धा अघा॒यवः॑ ॥ ३ ॥
प्रेतं॑ पादौ॒ प्र स्फु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्। इ॒न्द्रा॒ण्येऽतु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥ ४ ॥
काण्ड 1
सूक्त 27
Reach this point to mark the section finished.
Continue to सूक्त 28