धर्मDharmic Data

काण्ड 1

सूक्त 19

  1. मा नो॑ विदन् विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन्। आ॒राच्छ॑र॒व्या ऽ अ॒स्मद्विषू॑चीरिन्द्र पातय ॥ १ ॥

  2. विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः । दैवी॑र्मनुष्येषवो॒ ममा॒मित्रान् वि वि॑ध्यत ॥ २ ॥

  3. यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति । रु॒द्रः श॑रव्य ऽ यै॒तान् ममा॒मित्रा॒न् वि वि॑ध्यतु ॥ ३ ॥

  4. यः स॒पत्नो॒ योऽस॑पत्नो॒ यश्च॑ द्वि॒षन् छपा॑ति नः । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥ ४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 20

Previous: सूक्त 18