अ॒मूर्या यन्ति॑ यो॒षितो॑ हि॒रा लोहि॑तवाससः । अ॒भ्रात॑र इव जा॒मय॒स्तिष्ठ॑न्तु ह॒तव॑र्चसः ॥ १ ॥
तिष्ठा॑वरे॒ तिष्ठ॑ पर उ॒त त्वं ति॑ष्ठ मध्यमे । क॒नि॒ष्ठि॒का च॒ तिष्ठ॑ति॒ तिष्ठा॒दिद्ध॒मनि॑र्म॒ही ॥ २ ॥
श॒तस्य॑ ध॒मनी॑नां स॒हस्र॑स्य हि॒राणा॑म्। अस्थु॒रिन्म॑ध्य॒मा इ॒माः सा॒कमन्ता॑ अरंसत ॥ ३ ॥
परि॑ वः॒ सिक॑तावती ध॒नूर्बृ॑ह॒त्यऽक्रमीत्।तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ॥ ४ ॥
काण्ड 1
सूक्त 17
Reach this point to mark the section finished.
Continue to सूक्त 18