धर्मDharmic Data

काण्ड 1

सूक्त 14

  1. भग॑मस्या॒ वर्च॒ आदि॒ष्यधि॑ वृ॒क्षादि॑व॒ स्रज॑म्। म॒हाबु॑ध्न इव॒ पर्व॑तो॒ ज्योक् पि॒तृष्वा॑स्ताम् ॥ १ ॥

  2. ए॒षा ते॑ राजन् क॒न्या व॒धूर्नि धू॑यतां यम । सा मा॒तुर्ब॑ध्यतां गृ॒हेऽथो॒ भ्रातु॒रथो॑ पि॒तुः ॥ २ ॥

  3. ए॒षा ते॑ कुल॒पा रा॑ज॒न् तामु॑ ते॒ परि॑ दद्मसि । ज्योक् पि॒तृष्वा॑साता॒ आ शी॒र्ष्णः स॒मोप्या॑त् ॥ ३ ॥

  4. असि॑तस्य ते॒ ब्रह्म॑णा क॒श्यप॑स्य॒ गय॑स्य च । अ॒न्तः॒को॒शमि॑व जा॒मयोऽपि॑ नह्यामि ते॒ भग॑म् ॥ ४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 15

Previous: सूक्त 13